(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.91. अध्यायः 091
Mahabharata - Adi Parva - Chapter Topics
मृगयाप्रसङ्गेन दुष्यन्तस्य कण्वाश्रमगमनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-91-0x(571)(3911)
ततो मृगसहस्राणि हत्वा सबलवाहनः।
तत्र मेघघनप्रख्यं सिद्धचारणसेवितम्॥ 1-91-1(3912)
वनमालोकयामास नगराद्योजनद्वये।
मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः॥ 1-91-2(3913)
मृगाननुचरन्राजा वेगेनाश्वानचोदयत्।
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह॥ 1-91-3(3914)
एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः।
स वनस्यान्तमासाद्य महच्छून्यं समासदत्॥ 1-91-4(3915)
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्।
मनःप्रह्लादजननं दृष्टिकान्तमतीव च॥ 1-91-5(3916)
सीतमारुतसंयुक्तं जगामान्यन्महद्वनम्।
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्॥ 1-91-6(3917)
विपुलं मधुरारावैर्नादितं विहगैस्तथा।
पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम्॥ 1-91-7(3918)
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्।
षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम्॥ 1-91-8(3919)
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी।
षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वै काननेऽभवत्॥ 1-91-9(3920)
विगहैर्नादितं पुष्पैरलङ्कृतमतीव च।
सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम्॥ 1-91-10(3921)
मनोरमं सहेष्वासो विवेश वनमुत्तमम्।
मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः॥ 1-91-11(3922)
पुष्पवृष्टिं विचित्रां तु व्यसजंस्ते पुनः पुनः।
दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः॥ 1-91-12(3923)
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः।
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु॥ 1-91-13(3924)
रुवन्ति रावान्मधुरान्षट्पदा मधुलिप्सवः।
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्॥ 1-91-14(3925)
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान्।
संपश्यन्सुमहातेजा बभूव मुदितस्तदा॥ 1-91-15(3926)
परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः।
अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः॥ 1-91-16(3927)
सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः।
सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः॥ 1-91-17(3928)
सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः।
परिक्रामन्वने वृक्षानुपैतीव रिरंसया॥ 1-91-18(3929)
एवंगुणसमायुक्तं ददर्श स वनं नृपः।
नदीकच्छोद्भं कान्तमुच्छ्रितध्वजसन्निभम्॥ 1-91-19(3930)
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम्।
आश्रमप्रवरं रम्यं ददर्श च मनोरमम्॥ 1-91-20(3931)
नानावृक्षसमाकीर्णं संप्रज्वलितपावकम्।
तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत्॥ 1-91-21(3932)
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम्।
अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्॥ 1-91-22(3933)
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च।
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्॥ 1-91-23(3934)
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्।
तत्रव्यालमृगान्सैम्यान्पश्यन्प्रीतिमवाप सः॥ 1-91-24(3935)
तं चाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत।
देवलोकप्रतीकाशं सर्वतः सुमनोहरम्॥ 1-91-25(3936)
नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः।
सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम्॥ 1-91-26(3937)
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्।
सकिन्नरगणावासां वारनर्क्षनिषेविताम्॥ 1-91-27(3938)
पुण्यस्वाध्यायसंघुष्टा पुलिनैरुपशोभिताम्।
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्॥ 1-91-28(3939)
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः।
आश्रमप्रवरं रम्यं महर्षिगणसेवितम्॥ 1-91-29(3940)
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा।
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा॥ 1-91-30(3941)
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया।
नरनारायणस्थानं गङ्गयेवोपशोभितम्॥ 1-91-31(3942)
मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम्।
तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः॥ 1-91-32(3943)
अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा।
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्॥ 1-91-33(3944)
ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम्।
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः॥ 1-91-34(3945)
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्।
काश्यपं स्थीयतामत्र यावदागमनं मम॥ 1-91-35(3946)
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः॥
क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम्॥ 1-91-36(3947)
सामात्यो राजलिङ्गानि सोपनीय नराधिपः।
पुरोहितसहायश्च जगामाश्रममुत्तमम्॥ 1-91-37(3948)
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्।
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह।
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्॥ 1-91-38(3949)
विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह।
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः।
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु॥ 1-91-39(3950)
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्।
मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः॥ 1-91-40(3951)
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः।
यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः॥ 1-91-41(3952)
अथर्ववेदप्रवराः पूगयज्ञियसामगाः।
संहितामीरयन्ति स्म पदक्रमयुतां तु ते॥ 1-91-42(3953)
शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः।
नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः॥ 1-91-43(3954)
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः।
न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः॥ 1-91-44(3955)
नानावाक्यसमाहारसमवायविशारदैः।
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः॥ 1-91-45(3956)
स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः।
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः॥ 1-91-46(3957)
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः।
पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः॥ 1-91-47(3958)
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम्।
लोकायतिकमुख्यैश्च समन्तादनुनादितम्॥ 1-91-48(3959)
तत्रतत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्।
जपहोमपरान्विप्रान्ददर्श परवीरहा॥ 1-91-49(3960)
आसनानि विचित्राणि रुचिराणि महीपतिः।
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्॥ 1-91-50(3961)
देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः।
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः॥ 1-91-51(3962)
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्।
नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम्॥ 1-91-52(3963)
स काश्यपस्यायतनं महाव्रतै-
र्वृतं समान्तादृषिभिस्तपोधनैः।
विवेश सामात्यपुरोहितोऽरिहा
विविक्तमत्यर्थमनोहरं शुभम्॥ ॥ 1-91-53(3964)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकनवतितमोऽध्यायः॥ 91 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-91-4 शून्यं वृक्षादिरहितमूषरम्॥ 1-91-18 रिरंसया रमयितुमिच्छया॥ 1-91-19 नदीकच्छोद्भवं कच्छः सजलोऽनूपप्रदेशः॥ 1-91-29 काश्यपस्य कश्यपगोत्रस्य कण्वस्य॥ 1-91-39 विततेषु वैतानिकेषु इष्टिपशुसोमादिषु प्रवर्तमानेषु॥ 1-91-40 यज्ञविद्यायामङ्गभूतानि कल्पसूत्रादीनि॥ 1-91-41 भारुण्डसामानि पूगयज्ञियसामानि च साम्नामवान्तरभेदाः॥ 1-91-46 स्थापनं प्रथमं स्वसिद्धान्तव्यवस्था ततस्तत्र शङ्काऽऽक्षेपः तस्याः परिहारः सिद्धान्तस्तैर्या परमार्थज्ञता तां गतैः॥ 1-91-48 लोके एव आयतन्ते ते लोकायतिकाः तेषु लोकरञ्जनपरेषु मुख्यैः॥ एकनवतितमोऽध्यायः॥ 91 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.